(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.75. अध्यायः 075
Mahabharata - Bhishma Parva - Chapter Topics
कुरुपाण्डवयोः क्रौञ्चमकरव्यूहरचनापूर्वकमायोधनम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-75-0x(4150)(41977)
विहृत्य तु ततो राजन्सहिताः कुरुपाण्डवाः ।
व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः ॥ 6-75-1(41978)
ततः शब्दो महानासीत्तव तेषां च भारत ।
युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् ॥ 6-75-2(41979)
संनह्यतां पदातीनां हयानां चैव भारत।
शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् ॥ 6-75-3(41980)
ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत।
व्यूहं व्यूहस्व पाञ्चाल मकरं शत्रुनाशनम् ॥ 6-75-4(41981)
एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः।
व्यादिदेश यथान्यायं रथिनो रथिनां वरः ॥ 6-75-5(41982)
शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनञ्जयः।
चक्षुषी सहदेवश्च नकुलश्च महारथः ॥ 6-75-6(41983)
तुण्डमासीन्महाराज भीमसेनो महाबलः ।
सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः ॥ 6-75-7(41984)
सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः ।
पृष्ठमासीन्महाराज विराटो वाहिनीपतिः ॥ 6-75-9aधृष्टद्युम्नो महाराज महत्या सेनया वृतः ।
केकया भ्रातरः पञ्च वामपार्श्वं समाश्रिताः ॥ 6-75-8(41985)
धृष्टकेतुर्नरव्याघ्रश्चेकितानश्च वीर्यवान्।
दक्षिणं पक्षमाश्रित्य स्थितौ व्यूहस्य रक्षणे ॥ 6-75-10(41986)
पादयोस्तु महाराज स्थितः श्रीमान्महारथः।
कुन्तिभोजः शतानीको महत्या सेनया वृतः ॥ 6-75-11(41987)
शिखण्डी तु महेष्वासः सोमकैः संवृतो बली ।
इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ ॥ 6-75-12(41988)
एवमेतं महाव्यूहं व्यूह्य भारत पाण़्डवाः ।
सूर्योदये महाराज पुनर्युद्धाय दंशिताःक ॥ 6-75-13(41989)
कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः ।
समुच्छ्रितैर्ध्वजैश्छत्रैः शस्त्रैश्च विमलैः शितैः ॥ 6-75-14(41990)
व्यूढं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव ।
कौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् ॥ 6-75-15(41991)
तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत।
अश्वत्थामा कृपश्चैव चक्षुरास्तां जनेश्वर ॥ 6-75-16(41992)
कृतवर्मा तु सहितः काम्भोजैरथ बाह्लिकैः ।
शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ 6-75-17(41993)
ग्रीवायां शूरसेनश्च तव पुत्रश्च मारिष ।
दुर्योधनो महाराज राजभिर्बहुभिर्वृतः ॥ 6-75-18(41994)
प्राग्जोतिषस्तु सहितो मद्रसौवीरकेकयैः ।
उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः ॥ 6-75-19(41995)
पृष्ठे चास्तां महेष्वासावावन्त्यौ सपदानुगौः ।
स्वसेनया च सहितः शुशर्मा प्रस्थलाधिपः ।
वामं पक्षं समाश्रित्य दंशितः समवस्थितः ॥ 6-75-20(41996)
तुषारा यवनाश्चैव शकाश्च सह चूचुपैः ।
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्त भारत ॥ 6-75-21(41997)
श्रुतायुश्च शातायुश्च सौमदत्तिश्च मारिष ।
व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् ॥ 6-75-22(41998)
ततो युद्धाय संजग्मुः पाण्डवाः कौरवैः सह।
सूर्योदये महाराज प्रावर्तत जनक्षयः ॥ 6-75-23(41999)
प्रतीयू रथिनो नामान्नागाश्च रथिनो ययुः ।
हयारोहान्रथारोहा रथिनश्चापि सादिनः ॥ 6-75-24(42000)
सादिनश्च हयान्राजन्रथिनश्च महारणे ।
हस्त्यारोहान्हयारोहा रथिनः सादिनस्तथा ॥ 6-75-25(42001)
रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः ।
अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः ॥ 6-75-26(42002)
भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः ।
शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी ॥ 6-75-27(42003)
तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः ।
तवापि च बभौ सेना ग्रहैर्द्यौरिव संवृताः ॥ 6-75-28(42004)
भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी ।
अभ्ययाञ्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् ॥ 6-75-29(42005)
द्रोणास्तु समरे क्रुद्धो भीमं नवभिरायसैः ।
विव्याध समरश्लाघी मर्माण्युद्दिष्य वीर्यवान् ॥ 6-75-30(42006)
दृढाहतस्तो भीमो भारद्वाजस्य संयुगे।
सारथिं प्रेषयामास यमस्य सदनं प्रति ॥ 6-75-31(42007)
स संगृह्य स्कवयं वाहान्भारद्वाजः प्रतापवान् ।
व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः ॥ 6-75-32(42008)
ते वद्यमाना द्रोणेन भीष्मेण च नरोत्तमाः ।
सृञ्जयाः तावकं सैन्यं भीमार्जुनपरिक्षतम् ॥ 6-75-33(42009)
तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम्।
मुह्यते तत्रतत्रैव समदेव वराङ्गना॥ 6-75-34(42010)
अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये।
आसीद्व्यतिकरो घोरस्तव तेषां च भारत ॥ 6-75-35(42011)
तदद्भुतमपश्याम तावकानां परैः सह ।
एकायनगताः सर्वे यदयुध्यन्त भारत ॥ 6-75-36(42012)
प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशांपते ।
युयुधुः पाण्डवाश्चैव कौरवाश्च महाबलाः ॥ ॥ 6-75-37(42013)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसयुद्धे पञ्चसप्ततितमोऽध्यायः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.